हमारे शरीर में दस इंद्रियां, पांच प्राण, मन, बुद्धि, अहंकार= 18 भगवद्गीता में 700 श्लोक हैं। इनमें से 574 श्रीकृष्ण ने, 84 अर्जुन ने, 41 संजय ने और 1 धृतराष्ट्र ने कहा था। कुछ प्रतियों में 701 हैं। ... गीता उपनिषदों और योग शास्त्र का सार है, जिसे भगवान कृष्ण द्वारा अर्जुन को उपदेश दिया गया था, जो सर्वोच्च आत्मा के अवतार हैं। यह कहना कोई अतिश्योक्ति नहीं है कि इस अनंत ब्रह्मांड में श्रीकृष्ण के समान कोई गुरु और अर्जुन जैसा शिष्य नहीं है। उनकी बातचीत व्यास मुनिद्रों द्वारा लिखी गई है और हमारे सामने प्रस्तुत की गई है .. रामायण सर्ग, बाला कांड (77) सर्ग (2256) श्लोक, अयोध्या कांड (119) सर्ग (4415) श्लोक, अरण्य कांड (75) सर्ग (2732) श्लोक, किष्किंधा कांड (67) सर्ग (67) सर्ग (2620) श्लोक, सुंदर कांड (68) सर्ग (3006) श्लोक रामायण ईसा पूर्व का सबसे पुराना है। इतिहासकारों की राय है कि यह किसका है...

   Sanatana Dharm సనాతన ధర్మం
  Srimad Bhagavad Gita – श्रीमद्भगवद्गीता Valmiki Ramayanam in Sanskrit – वाल्मीकि रामायणम्

Yuddha Kanda Sarga 125 – युद्धकाण्ड पञ्चविंशत्युत्तरशततमः सर्गः (१२५)


॥ पुष्पकोत्पतनम् ॥

उपस्थितं तु तं दृष्ट्वा पुष्पकं पुष्पभूषितम् ।
अविदूरस्थितो रामं प्रत्युवाच विभीषणः ॥ १ ॥

स तु बद्धाञ्जलिः प्रह्वो विनीतो राक्षसेश्वरः ।
अब्रवीत्त्वरयोपेतः किं करोमीति राघवम् ॥ २ ॥

तमब्रवीन्महातेजा लक्ष्मणस्योपशृण्वतः ।
विमृश्य राघवो वाक्यमिदं स्नेहपुरस्कृतम् ॥ ३ ॥

कृतप्रयत्नकर्माणो विभीषण वनौकसः ।
रत्नैरर्थैश्च विविधैर्भूषणैश्चापि पूजय ॥ ४ ॥

सहैभिरजिता लङ्का निर्जिता राक्षसेश्वर ।
हृष्टैः प्राणभयं त्यक्त्वा सङ्ग्रामेष्वनिवर्तिभिः ॥ ५ ॥

त इमे कृतकर्माणः पूज्यन्तां सर्ववानराः ।
धनरत्नप्रदानेन कर्मैषां सफलं कुरु ॥ ६ ॥

एवं सम्मानिताश्चैते मानार्हा मानद त्वया ।
भविष्यन्ति कृतज्ञेन निर्वृता हरियूथपाः ॥ ७ ॥

त्यागिनं सङ्ग्रहीतारं सानुक्रोशं यशस्विनम् ।
सर्वे त्वामवगच्छन्ति ततः सम्बोधयाम्यहम् ॥ ८ ॥

हीनं रतिगुणैः सर्वैरभिहन्तारमाहवे ।
त्यजन्ति नृपतिं सैन्याः संविग्नास्तं नरेश्वरम् ॥ ९ ॥

एवमुक्तस्तु रामेण वानरांस्तान्विभीषणः ।
रत्नार्थैः संविभागेन सर्वानेवाभ्यपूजयत् ॥ १० ॥

ततस्तान्पूजितान्दृष्ट्वा रत्नैरर्थैश्च यूथपान् ।
आरुरोह ततो रामस्तद्विमानमनुत्तमम् ॥ ११ ॥

अङ्केनादाय वैदेहीं लज्जमानां यशस्विनीम् ।
लक्ष्मणेन सह भ्रात्रा विक्रान्तेन धनुष्मता ॥ १२ ॥

अब्रवीच्च विमानस्थः पूजयन्सर्ववानरान् ।
सुग्रीवं च महावीर्यं काकुत्स्थः सविभीषणम् ॥ १३ ॥

मित्रकार्यं कृतमिदं भवद्भिर्वानरोत्तमाः ।
अनुज्ञाता मया सर्वे यथेष्टं प्रतिगच्छत ॥ १४ ॥

यत्तु कार्यं वयस्येन सुहृदा वा परन्तप ।
कृतं सुग्रीव तत्सर्वं भवताऽधर्मभीरुणा ॥ १५ ॥

किष्किन्धां प्रतियाह्याशु स्वसैन्येनाभिसंवृतः ।
स्वराज्ये वस लङ्कायां मया दत्ते विभीषण ॥ १६ ॥

न त्वां धर्षयितुं शक्ताः सेन्द्रा अपि दिवौकसः ।
अयोध्यां प्रतियास्यामि राजधानीं पितुर्मम ॥ १७ ॥

अभ्यनुज्ञातुमिच्छामि सर्वांश्चामन्त्रयामि वः ।
एवमुक्तास्तु रामेण वानरास्ते महाबलाः ॥ १८ ॥

ऊचुः प्राञ्जलयो रामं राक्षसश्च विभीषणः ।
अयोध्यां गन्तुमिच्छामः सर्वान्नयतु नो भवान् ॥ १९ ॥

उद्युक्ता विचरिष्यामो वनानि नगराणि च ।
दृष्ट्वा त्वामभिषेकार्द्रं कौसल्यामभिवाद्य च ॥ २० ॥

अचिरेणागमिष्यामः स्वान्गृहान्नृपतेः सुत ।
एवमुक्तस्तु धर्मात्मा वानरैः सविभीषणैः ॥ २१ ॥

अब्रवीद्राघवः श्रीमान्ससुग्रीवविभीषणान् ।
प्रियात्प्रियतरं लब्धं यदहं ससुहृज्जनः ॥ २२ ॥

सर्वैर्भवद्भिः सहितः प्रीतिं लप्स्ये पुरीं गतः ।
क्षिप्रमारोह सुग्रीव विमानं वानरै सह ॥ २३ ॥

त्वमध्यारोह सामात्यो राक्षसेन्द्र विभीषण ।
ततस्तत्पुष्पकं दिव्यं सुग्रीवः सह सेनया ॥ २४ ॥

अध्यारोहत्त्वरन् शीघ्रं सामात्यश्च विभीषणः ।
तेष्वारूढेषु सर्वेषु कौबेरं परमासनम् ॥ २५ ॥

राघवेणाभ्यनुज्ञातमुत्पपात विहायसम् ।
ययौ तेन विमानेन हंसयुक्तेन भास्वता ॥ २६ ॥

प्रहृष्टश्च प्रतीतश्च बभौ रामः कुबेरवत् ।
ते सर्वे वानरा हृष्टा राक्षसाश्च महाबलाः ।
यथासुखमसम्बाधं दिव्ये तस्मिन्नुपाविशन् ॥ २७ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे पञ्चविंशत्युत्तरशततमः सर्गः ॥ १२५ ॥


www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.